(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.73. अध्यायः 073
Mahabharata - Udyoga Parva - Chapter Topics
भीमसेनेन श्रीकृष्णंप्रति दुर्योधनस्य दुराराध्यत्वकथनपूर्वकं यथाकथंचित् शमस्वावश्यकर्तव्यत्ककथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

भीम उवाच। 5-73-0x(3622)(34468)
यथायथैव शान्तिः स्यात्कुरूणां मधुसूदन।
तथातथैव भाषेथा मा स्म युद्धेन भीषयेः ॥ 5-73-1(34469)
अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः।
नोग्रं दुर्योधनो वाच्यः साम्नैवेनं समाचरेः ॥ 5-73-2(34470)
प्रकृत्या पापसत्वश्च तुल्यचेतास्तु दस्युभिः ।
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥ 5-73-3(34471)
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥ 5-73-4(34472)
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्।
तादृशेन शमः कृष्ण मन्ये परमदुष्करः ॥ 5-73-5(34473)
सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः ।
प्रतिहन्त्ये सुहृदां वाचश्चैव मनांसि च॥ 5-73-6(34474)
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।
स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः ॥ 5-73-7(34475)
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥ 5-73-8(34476)
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्।
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥ 5-73-9(34477)
दुर्योधनस्य क्रोधेन भरता मधुसूदन।
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥ 5-73-10(34478)
अष्टादशेमे राजानः प्रख्यात मधुसूदन ।
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ॥ 5-73-11(34479)
असुराणां समृद्धानां ज्वलतामिव तेजसा।
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत ॥ 5-73-12(34480)
हैहयानामुदावर्तो नीपानां जनमेजयः ।
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ॥ 5-73-13(34481)
अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः।
अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥ 5-73-14(34482)
हयग्रीवो विदेहानां वरयुश्च महौजसाम् ।
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः ॥ 5-73-15(34483)
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः ।
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः ॥ 5-73-16(34484)
शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।
युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः ॥ 5-73-17(34485)
अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः ।
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥ 5-73-18(34486)
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् ।
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम् ॥ 5-73-19(34487)
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः।
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन् ॥ 5-73-20(34488)
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह।
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥ 5-73-21(34489)
वाच्यः पितामहो वृद्धो ये च कृष्ण समासदः ।
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥ 5-73-22(34490)
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति ।
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने ॥ ॥ 5-73-23(34491)

इति श्रीमन्महाभारते उग्योगपर्वणि भगवद्यानपर्वणि त्रिसप्ततितमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-73-4 निष्ठूरी निष्ठुरवाक् । क्षेप्ता निन्दकः । अनेयः शिक्षयितुमयोग्यः ॥ 5-73-6 अवाचीनो विपरीतः ॥ 5-73-12 पर्यायकाले धर्मान्तकाले ॥ 5-73-19 कामानुबद्धं बहुलं बाहुल्येन तस्य चित्तानुसारी ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.